Ganapati Atharvashirsha
Authentic Path, Audio & Full Sanskrit Lyrics
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
अव श्रोतारम् । अव दातारम् ।
अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् ।
अवोत्तरात्तात् । अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥
सर्वं जगदिदं त्वयि तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक्पदानि ॥ ५ ॥
त्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।
त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवस्सुवरोम् ॥ ६ ॥
अनुस्वारः परतरः । अर्धेन्दुलसितम् ।
तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् । अकारो मध्यरूपम् ।
अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।
नादः सन्धानम् । संहिता सन्धिः ।
सैषा गणेशविद्या । गणक ऋषिः ।
निचृद्गायत्रीच्छन्दः । गणपतिर्देवता ।
ॐ गं गणपतये नमः ॥ ७ ॥
तन्नो दन्तिः प्रचोदयात् ॥ ८ ॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥
नमः प्रमथपतये ।
नमस्तेऽस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय
वरदमूर्तये नमः ॥ १० ॥
स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते ।
स पञ्चमहापापात्प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायंप्रातः प्रयुञ्जानो अपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विन्दति ॥ ११ ॥
Ganapati Atharvashirsha: Path, Lyrics, and Significance
The Ganpati Atharvashirsha (also known as the Ganesh Atharvashirsha) is a sacred Vedic text dedicated to Lord Ganesha. Written by Sage Atharva, it is considered the ultimate Upanishad for Ganesha devotees. Whether you are looking for Atharvashirsha lyrics in Sanskrit or Ganesh Atharvashirsha in Hindi, reciting this powerful mantra brings peace, prosperity, and removes all obstacles (Vighna).
Why Download Ganpati Atharvashirsha PDF?
Devotees often search for the Ganpati Atharvashirsha PDF to chant daily. This tool allows you to instantly generate a clean, printable PDF version of the Ganesh Atharvashirsha Path by clicking the “Download PDF / Print” button above. It includes the full Sanskrit verses along with English meanings.
Benefits of Ganesh Atharvashirsha Path
- Removal of Obstacles: Chanting the Atharvashirsha invokes Ganesha as the Vighnaharta (Remover of Obstacles).
- Mental Peace: The vibrations of the Ganpati Atharvashirsha Lyrics calm the mind and improve focus, making it ideal for students.
- Universal Prayer: Whether recited as Ganpati Atharvashirsha Marathi or in Hindi/Sanskrit, the spiritual benefit remains the same.
How to Chant?
You can listen to the high-quality audio player above to learn the correct pronunciation of the Ganesh Atharvashirsha Path in Hindi or Sanskrit style. It is best chanted early in the morning after a bath, facing East or North.